अद्य ३१.०८.२०२६ दिनाङ्के श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालये संस्कृतसप्ताहमहोत्सवस्य सप्तमदिवसः अर्थात् सम्पूर्तिदिवसः विविधैः कार्यक्रमैः सह हर्षोल्लासेन सम्पन्नः।

प्रातः सार्धदशवादनतः भगवद्गीताकण्ठपाठस्पर्धा, संस्कृतभाषणस्पर्धा तथा संस्कृतनिबन्धलेखनस्पर्धा, स्फूर्तिस्पर्धा च आयोजिताः आसन्। एतासु विविधासु स्पर्धासु शताधिकाः छात्राः दशाधिकाभ्यः संस्थाभ्यः आगत्य उत्साहपूर्वकं भागं स्वीकृतवन्तः। छात्राणां सक्रियसहभागितया सर्वाः स्पर्धाः सफलतया सम्पन्नाः।

अपराह्णे त्रिवादनतः संस्कृतसप्ताहमहोत्सवस्य सम्पूर्तिसमारोहः प्रारब्धः। अस्मिन् गरिमामये कार्यक्रमे डॉ. शोभनभट्टाचार्यवर्याय महामिलनमठस्य मठाध्यक्षाय विशेषतया सम्माननं प्रदत्तम्। तेषां संस्कृतभाषायाः प्रचारप्रसारे तथा संस्कृतसंरक्षणे योगदानं प्रशंस्य ‘संस्कृतानुचारः’ इति बिरुदेन सम्माननं कृतम्।

सम्पूर्तिसमारोहस्य अध्यक्षतां श्रीसीतारामवैदिकादर्शसंस्कृतमहाविद्यालयस्य अध्यक्षः प्रो. एस्. सुब्रह्मण्यशर्मा महाभागः निरूढवान्। महाविद्यालयस्य प्राचार्यः डॉ. सोमेशकुमारमिश्रमहाभागः, अन्ये प्राध्यापकाः, आचार्याः तथा छात्राः च कार्यक्रमे सादरम् उपस्थिताः आसन्।
कार्यक्रमस्य अन्ते विविधासु स्पर्धासु प्रथम-द्वितीय-तृतीयस्थानं प्राप्तेभ्यः छात्रेभ्यः पुरस्काराः प्रदत्ताः। प्रथमस्थानप्राप्तेभ्यः एकसहस्रं रूप्यकाणि, द्वितीयस्थानप्राप्तेभ्यः सप्तशतपञ्चाशद् रूप्यकाणि, तृतीयस्थानप्राप्तेभ्यः पञ्चशतं रूप्यकाणि पुरस्काररूपेण प्रदत्तानि। तैः सह विजेतृभ्यः पदान्यपि प्रदत्तानि।
तथैव उपस्थितेभ्यः सर्वेभ्यः ‘सरलमानकसंस्कृतम्’ इति संस्कृतपुस्तकं प्रदत्तम्। एतेन संस्कृताध्ययनस्य रुचेः संवर्धनं तथा संस्कृतभाषायाः प्रचारप्रसारश्च अधिकं भवेत् इति उद्देश्यं परिपुष्टम्।
अन्ते कार्यक्रमसमन्वयकेन डॅा. सुब्रह्मण्यभट्टवर्येण सर्वेषाम् अतिथीनाम्, आचार्याणाम्, छात्राणां, संस्थानां तथा सहभागिनां प्रति हार्दिकं धन्यवादज्ञापनं कृतम्। सर्वेषां सहयोगेन एवं सक्रियसहभागितया संस्कृतसप्ताहमहोत्सवस्य सप्तदिनात्मकः कार्यक्रमः सुचारुरूपेण सफलतया च सम्पन्नः।